________________
'जो जीवे' त्यादि, यो जीवानपि विजानाति अजीवानपि विजानाति, जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति ॥४४॥ प्रतिपादितः पञ्चम उपदेशार्थाधिकारः ।
साम्प्रतं धर्मफलमाहजया जीवमजीवे अ, दोऽवि एए विआणइ । तया गई बहुविहं, सव्वजीवाण जाणइ ॥४५॥
'जया' इत्यादि यदा-यस्मिन् काले जीवान् अजीवांश्च द्वावप्येतौ विजानाति-विविधं जानाति तदा-तस्मिन् काले गति-नरकगत्यादिरुपां बहुविधां-स्वपरगतभेदेनानेकप्रकारां तां सर्व-जीवानां जानाति यथावस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् ॥४५॥
उत्तरोत्तरां फलवृद्धिमाहजया गइ बहुविहं, सव्वजीवाण जाणइ । तया पुन्नं च पावं च, बंधं मुक्खं च जाणइ ॥४६॥
यदा गतिं बहुविधां स्वपरगतभेदेनानेकप्रकारां सर्वजीवानां जानाति, तदा पुण्यं च पापं च- बहुविधगतिनिबन्धनं, तथा बन्धंजीवकर्मयोग-सुखदुःखलक्षणं, मोक्षं-तद्वियोगस्वरूपाव-स्थानलक्षणं जानाति ॥४६॥
जया पुन्नं च पावं च, बंधं मुक्खं च जाणइ । तया निविदए भोए, जे दिव्वे जे य माणुसे ॥४७॥
'जया' इत्यादि, यदा पुण्यं च पापं च बन्धं मोक्षं च जानाति तदा निर्विन्ते-मोहाभावात् सम्यग्विचारयत्यसारदुःखरूपतया भोगान्शब्दादीन् यान् दिव्यान् यांश्च मानुषान्, शेषास्तु वस्तुतो भोगा एव न भवन्ति ॥४७॥
श्रीदशवैकालिकम् ।।