SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रयोजने पुनर्मार्गदर्शनादौ चैवं वदेदित्याहअसंथडा इमे अंबा, बहुनिव्वडिमाफला । वइज्ज बहुसंभूआ, भूअरूवत्ति वा पुणो ॥३१०॥ असंथडत्ति, असमर्था एते आम्राः, अतिभारेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्र-ग्रहणं प्रधानवृक्षोपलक्षणं, एतेन पक्कार्थ उक्तः, तथा बहुनिवर्तितफला:-बहुनि निर्वतितानि-बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः, वदेद् बहुनि-संभूतानिपाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथाविधाः, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेद्भूतानि रूपाणिअबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति ॥३१०॥ तहेवोसहिओ पक्काओ, नीलिआओ छवीइ अ । लाइमा भज्जिमाउत्ति, पिहुखज्ज त्ति नो वए ॥३११॥ तहत्ति, तथैवौषधयः-शाल्यादिलक्षणाः पक्वा इति तथा नीलाश्छवय इति, वल्लचनकादिफललक्षणाः, तथा लवनवत्योलवनयोग्याः, भर्जनवत्य इति-भर्जनयोग्याः, पृथुकभक्ष्या इति नो वदेत् पृथुकभक्षणयोग्यां, नो वदेदिति सर्वत्र सम्बध्यते, पृथुका अर्धपक्वशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति ॥३११।। प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह(वि)रूढा बहुसंभूआ, थिरा ओसढावि अ । गब्भिआओ पसूआओ, संसाराउत्ति आलवे ॥३१२॥ रूढत्ति, रूढाः-प्रादुर्भूताः, बहुसंभूता-निष्पन्नप्रायाः, स्थिरानिष्पन्नाः, उत्सृता इति वा-उपघातेभ्यो निर्गता वा, तथा गर्भिताअनिर्गतशीर्षकाः प्रसूता-निर्गतशीर्षकाः, संसाराः-संजात-तण्डुलादिसारा १२८ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy