SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ युग्यादि, भवेद्वा किंचिदुपाश्रये-वसतावन्यद्वा द्वारपात्राद्येतेषु वृक्षेष्विति, भूतोपघातिनी-सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान् साधुरिति, दोषाश्चात्र तद्वनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः ॥३०६।। तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ । रुक्खा महल्ल पेहाए, एवं भासिज्ज पन्नवं ॥३०७॥ अत्रैव विधिमाह-तहेवत्ति, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ॥३०७॥ जाइमंता इमे रुक्खा, दीहवट्टा महालया । पजायसाला विडिमा, वए दरिसणित्ति अ ॥३०८॥ जाइमंतत्ति, जातिमन्तः-उत्तमजातीया अशोकादयोऽनेकप्रकारा वा एते-उपलभ्यमानस्वरूपा वृक्षा दीर्घवृत्ता महालयाः-दीर्घा नालिकेरिप्रभृतयो, वृत्ता नन्दिवृक्षादयो, महालया वटादयः, प्रजातशाखा-उत्पन्नडाला, विटपिन:-प्रशाखावन्तो वदेदर्शनीया इति, एते च प्रयोजने उत्पन्ने विश्रमण-तदासन्नमार्गकथनादौ वदेन्नान्यदेति ॥३०८॥ तहा फलाइं पक्काई, पायखज्जाइं नो वए । वेलोइयाइं टालाइं, वेहिमाइ त्ति नो वए ॥३०९॥ तहा फलाइं पक्काइत्ति, तथा फलानि-आम्रफलादीनि पक्वानिपाकप्राप्तानि, तथा पाकखाद्यानि-बद्धास्थीनि गर्ताप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत्, तथा वेलोचितानि-पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, टालानिअबद्धास्थीनि कोमलानीति यदुक्तं भवति, तथा द्वैधिकानीति-पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति नो वदेत्, दोषाः पुनरत्रात ऊर्ध्वं नाश एवामीषां, न शोभनानि वा प्रकारान्तरभोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति ॥३०९॥ श्रीदशवैकालिकम् । १२७
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy