SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ नासंदीत्ति, नासन्दीपर्यङ्कयोः प्रतीतयोर्न निषद्यायां-एकादिकल्परूपायां, न पीठके-वेत्रकाष्ठमयादौ निर्ग्रन्थाः-साधवः, अप्रत्युपेक्ष्यचक्षुरादिना न निषीदनादि कुर्वन्ति इति वाक्यशेषः, नसर्वत्राभिसम्बध्यते, न कुर्वन्तीति, किंविशिष्टा निर्ग्रन्थाः ?, इत्याह-बुद्धोक्ताधिष्ठातारः-तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्धादौ निषीदनादिनिषेधात् धर्मकथादौ राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह विशेषणान्यथानुपपत्तेरिति ॥२६३।। अत्रैव दोषमाहगंभीरविजया एए, पाणा दुप्पडिलेहगा । आसंदी पलिअंको अ, एअमटुं विवज्जिआ ॥२६४॥ गंभीरत्ति, गम्भीरविजया, गम्भीरं-अप्रकाशं, विजयः-आश्रयः अप्रकाशाश्रया, एते-प्राणिनामासन्धादयः, एवं च प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीड्यन्ते च एतदुपवेशनादिना, आसन्दः पर्यश्च, चशब्दात् मञ्चादयश्चैतदर्थं विवर्जिताः साधुभिरिति ॥२६४॥ उक्तः पर्यङ्कस्थानविधिः, तदभिधानात्पञ्चदशस्थानम्, इदानीं षोडशस्थानमधिकृत्याह गोअरग्गपविट्ठस्स, निसिज्जा जस्स कप्पइ । इमेरिसमणायारं, आवज्जइ अबोहियं ॥२६५॥ गोयरग्गत्ति, गोचराग्रप्रविष्टस्य-भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं यः समाचरति साधुरितिभावः, स खलु एनमीदृशं वक्ष्यमाणलक्षणं अनाचारमापद्यते-प्राप्नोति, अबोधिकंमिथ्यात्वफलमिति ॥२६५॥ अनाचारमाह श्रीदशवैकालिकम् । ११२
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy