SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति । तदाह-शीतोदकसमारम्भेसचेतनोदकेन भाजनाधावनारम्भे तत्मात्रक-धावनोज्झने-कुण्डमोदादिषु क्षालनजलत्यागे यानि क्षप्यन्ते-हिंस्यन्ते भूतानि-अप्कायादीनि, सोऽत्रगृहिभाजनभोजने दृष्टः-उपलब्धः, केवलज्ञानभास्वता असंयमस्तस्य भोक्तुरिति ॥२६०॥ पच्छाकम्मं पुरेकम्मं, सिआ तत्थ न कप्पइ । एणमटुं न भुंजंति, निग्गंथा गिहिभायणे ॥२६१॥ किंच पच्छाकम्मंति, पश्चात्कर्म पुरःकर्म स्यात्तत्र-कदाचिद् भवेद् गृहिभाजनभोजने, पश्चात्कर्मपुरःकर्मभावस्तूक्तवदित्येके। अन्ये तु भुञ्जन्तु तावत्साधवो वयं तु पश्चाद्भोक्ष्यामहे इति पश्चात्कर्म, व्यत्ययेन तु पुरःकर्मेति व्याचक्षते । एतच्च न कल्पते धर्मचारिणां, यत एवमेतदर्थं-पश्चात्कादिपरिहारार्थं न भुञ्जन्ते निर्ग्रन्थाः, क्वेत्याहगृहिभाजने अनन्तरोदित इति ॥२६१॥ उक्तो गृहिभाजनदोषस्तदभिधानाच्चतुर्दशस्थानविधिः, इदानीं पञ्चदशस्थानविधिमाह आसंदीपलिअंकेसु, मंचमासालएसु वा । अणायरिअमज्जाणं, आसइत्तु सइत्तु वा ॥२६२॥ आसंदीति, आसन्दीपर्यको प्रतीतौ तयोरासन्दीपर्यङ्कयोः, मञ्चाशालकयोश्च मञ्चः प्रतीतः, आशालकस्तु-अवष्टम्भसमन्वित आसनविशेषः, एतयोरनाचरितमनासेवितमार्याणां-साधूना-मासितुं-उपवेष्टुं स्वप्तुं वा-निद्रातिवाहनं वा कर्तुं, शुषिरादिदोषादिति ॥२६२।। अत्रैवापवादमाहनासंदीपलिअंकेसु, न निसिज्जा न पीढए । निग्गंथाऽपडिलेहाए, बुद्धवुत्तमहिठ्ठगा ॥२६३॥ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy