________________
कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थं उत्सृतं-ऋद्धिमत् कुलं, नाभिधारयेत्-न यायात्, अभिष्वङ्गलोकलाघवादिप्रसङ्गादिति ॥१८४।।
अदीणो वित्तिमेसिज्जा, न विसीइज्ज पंडिए । अमुच्छिओ भोअणंमि, मायण्णे एसणारए ॥१८५॥
किंच-अदीणोत्ति, अदीनो-द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः, वृत्तिवर्तनं एषयेत्-गवेषयेत्, न विषीदेत्-अलाभे सति विषादं न कुर्यात्, पण्डितः-साधुः, अमूर्छितः-अगृद्धो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति एषणारत:-उद्गमोत्पादनैषणापक्षपातीति ॥१८५॥
बहुं परघरे अस्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ॥१८६॥
एवं च परिभावयेत्-बहुति, बहु-प्रमाणतः प्रभूतं परगृहे-असंयतादिगृहेऽस्ति विविधं-अनेकप्रकारं खाद्यं स्वाद्यं, एतच्चाशनाद्युपलक्षणं, न तत्र पण्डितः कुप्येत्-सदपि न ददातीति न रोषं कुर्यात्, किंतुइच्छया दद्यात्परो न वेति, इच्छा परस्य, न तत्रान्यत् किञ्चिदपि चिन्तयेत्, सामायिकबाधनादिति ॥१८६।।
एतदेव विशेषेणाहसयणासणवत्थं वा, भत्तं पाणं व संजए । अदितस्स न कुप्पिज्जा, पच्चक्खेवि अ दीसओ ॥१८७॥
सयणत्ति, शयनासनवस्त्रं चेत्येकवद्भावः । भक्तं पानकं वा संयतोऽददतो न कुप्येत् तत्स्वामिनः, प्रत्यक्षेऽपि च दश्यमाने शयनासनादाविति ॥१८७॥
इत्थिअं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइज्जा, नो अ णं फरुसं वए ॥१८८॥
किंच-इत्थियंति, स्त्रियं वा पुरुषं वा, अपिशब्दात् तथाविधं श्रीदशवैकालिकम् ।