SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ नीमफलं, आमं परिवर्जयेदिति ॥१८०॥ तहेव चाउलं पिटुं, विअडं वा तत्तऽनिव्वुडं । तिलपिठ्ठपूइपिन्नागं, आमगं परिवज्जए ॥१८१॥ तहेवत्ति, तथैव तान्दुलं पिष्टं-लोष्ठ (ट्ट)मित्यर्थः, विकटं वाशुद्धोदकं, तथा तप्तनिवृतं क्वथितं सच्छीतीभूतं, तप्तानिवृतं वाअप्रवृत्तत्रिदण्डं, तिलपिष्ठं-तिललोष्ठं( ) पूतिपिन्नागं-सिद्धार्थकखलं, आमं परिवर्जयेदिति ॥१८१॥ कविढं माउलिंगं च, मूलगं मूलगत्तिअं । आमं असत्थपरिणयं, मणसावि न पत्थए ॥१८२॥ कविठ्ठत्ति, कपित्थं-कपित्थफलं, मातुलिङ्गं वा-बीजपूरकं, मूलकं सपत्रजालकं, मूलकर्तृकां-मूलकन्दचक्कलीं, आमां अपक्वामशस्त्रपरिणतां स्वकायशस्त्रादिनाऽविध्वस्तां अनन्तकायिकत्वात् गुरुत्वख्यापनार्थमुभयम् । मनसापि न प्रार्थयेदिति ॥१८२॥ तहेव फलमंथूणि, बीअमंथूणि जाणिआ । बिहेलगं पियालं च, आमगं परिवज्जए ॥१८३॥ तहेवत्ति, तथैव फलमन्थून्-बदरचूर्णान्, बीजमन्थून्-यवादिचूर्णान् ज्ञात्वा प्रवचनतः बिभीतकं-बिभीतकफलं, प्रियालं-प्रियालफलं च आम-अपरिणतं परिवर्जयेदित्यर्थः ॥१८३॥ विधिमाहसमुआणं चरे भिक्खू, कुलमुच्चावयं सया । नीयं कुलमइक्कम्म, ऊसढं नाभिधारए ॥१८४॥ समुयाणंति, समुदानं भावभैक्ष्यमाश्रित्य चरेत्-गच्छेत् भिक्षुः । क्वेत्याह-कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवापेक्षया प्रधानमप्रधानं च, यथा परिपाट्येव चरेत्-गच्छेत् सदा-सर्वकालं, नीचं श्रीदशवैकालिकम् । ८६
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy