SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ तथाप्रकारे अन्तरिक्षजाते यावद दुर्बद्धादौ नोआतापयेद्वा प्रतापयेद्वा । भिक्षुर्वाऽभिकाक्षेद् वस्त्रमातापयितुं वा प्रतापयितुं वा तथाप्रकारं वस्त्रं स्कन्धे वा मञ्चके वा माले वा प्रासादे वा हर्म्य वाऽन्यतरस्मिन् वा तथाप्रकारे अन्तरिक्षजाते यावद दुर्वद्धादौ नो आतापयेद्वा प्रतापयेद्वा । स भिक्षुस्तदादाय एकान्तमपक्राम्येद, अपक्रम्य चाऽधोदग्धस्थण्डिले यावद् अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले प्रत्युपेक्ष्य २ प्रमृज्य २ ततः संयत एव वस्त्रमातापयेद्वा प्रतापयेद्वा, एतत् खलु भिक्षोः सामग्र्यमिति सदा यतस्वेति ब्रवीमि ||१४८।। वस्त्रैषणायाः प्रथम उद्देशः समाप्तः ।। ।। अथ द्वितीयोद्देशकः ।। साम्प्रतं द्वितीयः समारभ्यते, इहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्तरं धरणविधिरभिधीयते, इत्यस्योद्देशकस्यादिसूत्रम् - " से भिक्खू वा २ अहेसणिज्जाई वत्थाई जाइज्जा, अहापरिग्गहियाई वत्थाई धारिज्जा, नो धोइज्जा नो रएज्जा नो धोतरत्ताई वत्थाई धारिज्जा, अपलिउंचमाणो गामंतरेसु. ओमचेलिए, एयं खलु बत्थधारिस्स सामग्गियं। से भिक्खू गाहावइकुलं पविसिउकामे सव्वं चीवरमायाए गाहावइकुलं निक्खमिज्ज वापविसिज्ज वा, एवं बहिया बिहारभूमिं वा वियारभूमि वा गामाणुगामं वा दूइज्जिज्जा, अह पु. तिब्बदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सबंचीवरमायाए । सू.१४९।। सभिक्षुर्वा २ यथैषणीयानि वस्त्राणि याचेद, यथापरिगृहीतानि च वस्त्राणि धारयेद्, न धावयेद् नरञ्जयेद् न धौतरक्तानि वस्त्राणि धारये जिनकल्पिकोद्देशेन द्रष्टव्यमेतत्सूत्रं वस्त्रधारित्वविशेषणाद गच्छान्तर्गतेऽपि चाऽविरुद्धम् अपरिकुचन अगोपयन् ग्रामान्तरेषु अवमचेलिकः असारवस्त्रधारी सुखेनैव गच्छेत्, एतत् खलु वस्त्रधारिणः सामग्र्यम् । स भिक्षुर्वा २ गृहपतिकुलं प्रवेष्टुकामः सर्वं चीवरमादाय गृहपतिकुलं निष्क्रामेद्वा प्रविशेद्वा, एवं बहिर्विहारभूमि वा विचारभूमिं वा ग्रामानुग्रामं वा द्रवेत्। अथ पुनरेवं जानीयात् तीव्रदेशिकं वा वर्ष वर्षन्तं प्रेक्ष्य यथा पिण्डैषणायां नवरं सर्वंचीवरमादाय इत्यनेन-तीव्रदेशिकां महिकां सन्निपतन्ती प्रेक्ष्य महावातेन वा रजः समुद्धतं वा प्रेक्ष्य तिरश्चीनसंपतिमान् वा त्रसान् प्राणिनः संस्तृतान् सन्निचियमानान घनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा न सर्वं चीवरमादाय गृहपतिकुलं प्रविशेद्वा निष्क्रामेद्वा, एवं बहिर्विहारभूमिं वा विचारभूमिं वा ग्रामानुग्रामं द्रवेद इत्यपि पूर्ववन्नेयम् ।।१४९।। इदानी प्रतिहारिकोपहतवस्त्रविधिमधिकृत्याह - से एगइओ मुहत्तगं २ पानिहारियं वत्थं जाइज्जा जाव एगाहेण वा बु. ति. चउ. पंचाहेण वा विपवसिय २ उवागच्छिज्जा, नोतहवत्थं अप्पणो गिहिज्जा नो अन्नमन्नस्स विज्जा, नो पामिच्चं कुज्जा, नोवत्थेणबत्थपरिणामं करिज्जा, नो परं उवसंकमित्ता एवं. बहज्जा-आउ. समणा! अभिकंखसि वत्थंधारित्तए वा परिहरितएवा? थिरं वा संतं नो पलिछिंदिय र परि?विज्जा, तहप्पगारंवत्थं ससंधियं वत्थं तस्स चेव निसिरिज्जानोणं आचारागसूत्रम् ८४
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy