SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ शब्दानाम्। स भिक्षुर्वा २ पुनरेवं जानीयात् - या च भाषा सत्या १, या च भाषा मृषा २, या च भाषा सत्यामृषा ३, या च भाषा असत्याऽमृषा ४ । तथाप्रकारां भाषां सावद्यां सक्रियां कर्कशां कटुकां निष्ठुरां परुषां आश्रवकरीं छेदनकरीं भेदनकरीं परितापकरीं भूतोपघातिकाम् अभिकाङ्क्ष्य मनसा पर्यालोच्य नो भाषेत, यतो मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्याऽपि सावद्यादिदोषोपेता न वाच्या । स 'भिक्षुर्वा भिक्षुणी वा पुनरेवं जानीयात् - या च भाषा सत्या सूक्ष्मा सूक्ष्मबुद्ध्या पर्यालोच्यमाना मृषाऽपि सत्या भवति, यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति या च असत्याऽमृषा तथाप्रकारां भाषाम् असावद्यां यावद् अभूतोपघातिकाम् अभिकाङ्क्ष्य-पर्यालोच्य भाषां भाषेत । । १३३ । । किञ्च - भिक्खू वा २ आमंतमाणे आमंतिए वा अपरिसुणेमाणं नो एवं बइज्जाहोलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्खेति वा घडवासोत्ति वा साणेत्ति वा तेणित्ति वा चारिति वा माइति वा मुसावाइति वा, एयाइं तुमं ते जणगावा, एअप्पगारं भासं सावज्जं सकिरियं जाब भूओबघाइयं अभिकंख नो भासिज्जा से भिक्खू वा २ पुमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वइज्जा अमुगे इ वा आउसोत्तिवा आउसंतारोति वा साबगेत्ति वा धम्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगारं भासं असावज्जं जाव अभिकंख भासिज्जा । से भिक्खू वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणिं नो एवं बइज्जाहोलीइ वा गोलीति वा इत्थीगमेणं नेयव्वं । से भिक्खू वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पणिमाणिं एवं वइज्जा आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा सावित्ति बा उबासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एयप्पगारं भासं असावज्जं जाव अभिकंख भासिज्जा । ।सूत्र - १३४ ।। स भिक्षुर्वा २ पुमांसमामन्त्रयन् आमन्त्रितं वा अप्रतिश्रृण्वन्तम् नैवं वदेत् - होल इति वा गोल एतौ देशान्तरेऽवज्ञासूचकाविति इति वा, वृषल - शूद्र इति वा, कुपक्ष कुत्सितान्वय इति वा, घटदास इति वा, श्वा इति वा, स्तेन इति वा, चारिक:- हेरिक इति वा, मायावीति वा, मृषावादीति वा, एतानि - होलगोलादीनि त्वं ते जनकौ - मातापितरौ वा, एतत्प्रकारां भाषां सावद्यां सक्रियां यावद् भूतोपघातिकाम् अभिकाङ्क्ष्य -मनसा पर्यालोच्य नो भाषेत । स भिक्षुर्वा २ पुमांसमामन्त्रयन्नामन्त्रितं वा अप्रतिश्रृण्वन्तं एवं वदेत् - अमुक इति वा, आयुष्मन्त इति वा, श्रावक इति वा, धार्मिक इति वा धर्मप्रिय इति वा, एतत्प्रकारां भाषाम् असावद्यां यावद् अभिकाङ्क्ष्य भाषेत । स भिक्षुर्वा २ स्त्रियं वाऽऽमन्त्रयन्नामन्त्रितां वाऽप्रतिश्रृण्वन्तीम् एवं वदेत् - आयुष्मतीति वा, भगिनीति वा, भोगिनीति वा, भगवतीति वा, श्राविकेतिवा उपासिकेति वा, धार्मिकेति वा, धर्मप्रियेति वा, एतत्प्रकारां भाषाम् असावद्यां यावद् अभिकाङ्क्ष्य भाषेत ।।१३४ ।। पुनरप्यभाषणीयामाह - सेभिक्खू वा २ नो एवं वइज्जा नभोवेवित्ति वा गज्जवेवित्ति वा विज्जुबेवित्ति वा पबुटुवे. निबुट्टबेवित्ति वा पडउ ब्रा बासं मा वा पडउ, निष्फज्जउ वा सस्सं मा वा नि०, आचाराङ्गसूत्रम् ७३
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy