SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अत्रापि नो एष्यति, इत्यादि अनुविचिन्त्य, ज्ञानातिशयेन श्रुतोपदेशेन वा प्रयोजने सति निष्ठाभाषी सावधारणभाषी सन् समित्या समतया वा संयतो भाषां भाषेत्, तद्यथा-एकवचनं १ द्विवचनं २ बहुवचनं ३ स्त्रीवचनं वीणा कन्या इत्यादि ४ पुरुषवचनं घटः पटः इत्यादि ५ नपुंसकवचनं पीठं देवकुलमित्यादि ६ अध्यात्मवचनं यद् हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसापतितम् ७ उपनीतवचनं प्रशंसावचनं यथा रूपवती स्त्री ८ अपनीतवचनं रूपहीनेति ९ उपनीताऽपनीतवचनं रूपवती किन्त्वसदवृत्तेति १० अपनीतोपनीतवचनम् अरूपवती किन्तु सदवृत्तेति ११ अतीतवचनं १२ प्रत्युत्पन्नवचनं वर्तमानवचनं यथा करोति १३ अनागतवचनं १४ प्रत्यक्षवचनम् एष देवदत्त इति १५ परोक्षवचनं स देवदत्त १६ स एकवचनं वदिष्यामीति विवक्षया एकवचनं वदे यावत् परोक्षवचनं वदिष्यामीति विवक्षया परोक्षवचनं वदेत्। तथा स्त्र्यादिके दृष्टे सति स्त्री वा एषा, पुरुषो वा एषः, नपुंसकं वा एतत्, एवं वा चैतत् अन्यद्वा चैतद, अनुविचिन्त्य, निष्ठाभाषी सन समित्या समतया वा संयतो भाषां भाषेत्, इत्येतानि आयतनानि दोषस्थानानि पूर्वोक्तानि वक्ष्यमाणानि च उपातिक्रम्य। अथ भिक्षुर्जानीयात् चत्वारि भाषाजातानि भाषाः तद्यथा-सत्यमेकं प्रथमं भाषाजातम् १ द्वितीयं मृषा-भाषाजातं २ तृतीयं सत्यामृषा-भाषाजातं ३ यन्नैव सत्यं नैव मृषा नैव सत्यामृषा सा असत्याऽमृषा आमन्त्रणाऽऽज्ञापनादिकं नाम तच्चतुर्थं भाषाजातं ४। सोऽहं यदेतद् ब्रवीमि तद् येऽतीता ये च प्रत्युत्पन्ना येऽनागता अर्हन्तो भगवन्तः सर्वे ते एतानि एव चत्वारि भाषाजातानीति अभाषन्त वा भाषन्ते वा भाषिष्यन्ते वा अप्रज्ञापयन् वा ३ । सर्वाणि चैतानि भाषाद्रव्याणि अचित्तानि वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति चयोपचयिकानि विपरिणामधर्माणि भवन्तीति आख्यातानि तीर्थकृद्भिरिति ।।१३२।। ___ अनन्तरसूत्रे च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्त्तत्वमावेदितं, न ह्यमूर्तस्याकाशादेर्वर्णादयः संभवन्ति, तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति। साम्प्रतं शब्दस्य कृतकत्वाविष्करणायाह - से भिक्खू वा २ से जं पुण जाणिज्जा पुब्बिं भासा अभासा भासिज्जमाणी भासा भासा भासासमयवीइक्कंताचणं भासिया भासा अभासा से भिक्खू वा २ से जं पुण जाणिज्जा जा य भासा सच्चा १जाय भासा मोसारजा य भासा सच्चामोसा २ जाय भासा असच्चाऽमोसा ४,तहप्पगारंभासंसावजंसकिरियं कक्कसंकडूयं निरं फरुसं अण्हयकरिछेयणकरि भेयणकरिंपरियावणकरि भूओवघाइयं अभिकंख नो भासिज्जा। से भिक्खूवा भिक्खुणी वा सेजं पुण जाणिज्जा, जाय भासा सच्चा सहमा जाय भासा असच्चामोसा तहप्पगारं भासं असावजंजाव अभूओवघाइयं अभिकंख भासं भासिज्जा सूत्र-१३३।। स भिक्षुर्वा २ पुनर्जानीयात् - भाषणात् पूर्वं भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् प्राग भाषाअभाषा, भाष्यमाणा एव भाषा भाषा, अनेन ताल्चोष्ठादिव्यापारेण प्रागसतःशब्दस्य निष्पादनात फुटमेव कृतकत्वमावेदितम् भाषासमयव्यतिक्रान्ता च भाषिता भाषा अभाषा एव सा चोच्चरितप्रध्वंसित्वात आचारागसूत्रम् ७२
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy