SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ नाईयमट्ठे न य आगमिस्सं, अट्टं नियच्छन्ति तहागया उ । विहुकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी ॥२॥ अपरेण जन्मादिना सह पूर्वमतिक्रान्तं जन्मादि न स्मरन्ति नाऽऽकाङ्क्षन्ति वा एके, किमस्याऽतीतं ? किं वाऽऽगमिष्यत् ? भाषन्ते एके इह मानवाः यदस्यातीतं तदागमिष्यत् । अपरे तु पठन्ति अवरेण पुव्विं किह से अतीतं, किह आगमिस्सं न सरंति एगे । भासन्ति एगे इह माणवाओ, जह से अईअं तह आगमिस्सं ॥१॥ उक्तार्थमेव ॥ नातीतमर्थम् अनागतरूपतयैव न चाऽऽगमिष्यन्तमर्थम् अतिक्रान्तरूपतयैव नियच्छन्ति अवधारयन्ति तथागताः - सर्वज्ञास्तु विचित्रत्वात् परिणतेः । साधुः एतदनुदर्शी - पूर्वापरानुदर्शी. निझोषयिता विधूतकल्पः क्षपयिष्यति कर्म क्षपको महर्षिरिति । - - - कर्मक्षपणोद्यतस्य यत्स्यात्तद्दर्शयति - का अरइ के आणंदे ?, इत्थंपि अग्गहे चरे, सव्वं हासं परिचज्ज आलीणगुत्तो परिव्वए, पुरिसा ! तुममेव तुमं मित्तं, किं बहिया मित्तमिच्छसि ? ॥११८॥ का अरतिः क आनन्दः । अत्रापि अरतावानन्दे अग्रहः अगृध्नुः सन् चरेत् । सर्वं हास्यं परित्यज्य आलीनगुप्तः - इन्द्रियनिरोधादिके आलीनः स च गुप्तो मनोवाक्कायकर्मभिः कूर्मवद् वा संवृतगात्रः परिव्रजेत् । पुरुष ! त्वमेव तव मित्रम् किमिति बहिर्मित्रमिच्छसि ? ॥ ११८ ॥ - यो हि निवाणनिर्वर्तकव्रतमाचरति स आत्मनो मित्रम्, स चैवम्भूतः कुतोऽवगन्तव्यः ? किं फलश्चेत्याह - जं जाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा ! अत्ताणमेवं अभिणिणिज्य एवं दुक्खा पमुचसि, पुरिसा ! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उवट्ठिए मेहावी मारं तरइ, सहिओ धम्ममायाय सेयं समणुपस्सइ ॥ ११९॥ यं जानीयात् कर्मणां विषयसङ्गानां च उच्चालयितारम् - अपनेतारं तं जानीयात् दूरालयिकं - मोक्षमार्गव्यवस्थितम्, यं जानीयात् दूरालयिकं तं जानीयात् उच्चालयितारम् । पुरुष ! धर्मध्यानाद् बहिर्विषयाभिष्वङ्गाय ४६ * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy