________________
श्री चम्पकमाला-चरित्रम्
प्रथम-प्रस्तावः गता तस्थुषी सती हि निश्चयेन वर्षमपि घा=दिनं मनुते।
इत्थं तयाऽचिरपरिणीतया कामिन्या प्रार्थितो राजा तस्यै लेखनाद्यशेषसामग्रीमदात्। साप्यन्तरं रागं विनैव बाह्यरागेण राजानमालादयन्ती नितराममोदत। इत्थं क्षोणीपतिस्तां विदग्धवनितां सर्वेच्छितप्रदानेन सन्तर्पितवान्। सापि तदिङ्गितज्ञानदक्षा बाह्योपचारैस्तमानन्दयितुं लग्ना। श्रीसौधर्मबृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप
श्रीराजेन्द्रजगज्जयिष्णुचरणाम्भोजद्वयान्तेसदा । एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे मुदा, जज्ञे चम्पकमालिकीयचरिते प्रस्ताव भाद्यो ह्ययम् ||१||
1. अच्छ-निर्मल.
207