SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भवति कृपालो ! तस्मात्, तूर्णमागत्य विलोक्यतां सर्वम् । सम्प्रति यानि सटितानि, द्रागेव तानि समुद्धरणीयानि ॥४१५॥ (चतुर्भिः कलापकम्) इत्थं तद्विज्ञप्तिं, स्वाकर्ण्य चरित्रनायको धीमान् । विविच्य सर्वं गुरुभिः, तेषामभ्यर्थनमुररीकृतवान् ॥४१६॥ औपच्छन्दसिकम् - इति गुरुवचसा मुदिताऽऽशयास्ते, ह्यभिवन्द्य गुरून् भक्ति-पूर्ण-चित्ताः । सकल-महेभ्याः स्वकीय-गेहं, प्रतिचेलुः कृतकृत्यतां नयन्तः ॥४१७॥ अथ चरित्रनायकोऽतितूर्णं, ___सह गुरुवर्यैः पादलिप्तपुर्याः । शुभदिवसे प्रस्थितः प्रविद्वान्, ___ तारङ्गातीर्थं समाययौ सः ॥४१८॥ वसन्ततिलका - चैत्रे सिते शशितिथौ परिपूर्ण-भक्त्या, श्रीवीतराग-मजित-प्रभुमत्र दृष्ट्वा । कामं चिरं जिनवरं मृदु-हारि-पद्यैः, संनुत्य धन्यममत स्वमसौ सुधर्मा ॥४१९॥ श्रीमान् कुमारयुत-पाल उदार-कीर्ति स्तीर्थेऽतिभव्य-गगन-स्पृश-चैत्यमस्मिन् चक्राण आहेत-वरः पृथिवी-पतीन्द्र स्तत्तुल्यमन्यदधुना न हि वर्वृतीति ॥४२०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy