________________
६२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अत्युग्र-रूप-ललनाजन-रम्य-गीतैः,
प्रावेशि तत्र नगरे मुनिनायकाऽग्र्यः ॥३४९॥ उपजातिः - मेघागमे बर्हिगणा इवाऽस्मिन्,
विवस्वतीवाऽभ्युदिते च कोकाः । प्रामोमुदुस्तत्र समस्त-पौराः,
समागते श्रीमति सद्गुरौ हि ॥३५०॥
पञ्चचामरम् -
अथाम्बुवाह-निस्वनोपमान-धीर-नादत्तः,
सुधर्म-मर्म-बोधिकाः समुज्ज्वला अतिस्फुटाः । भवाटवी-चिर-भ्रमज्जनैक-मार्गदर्शिकाः,
समस्त-कर्मबन्धन-च्छिदाऽतितीक्ष्ण-कर्तरीः ॥३५१॥ कषाय-पङ्क-शोषणे विकर्तन-प्रभायिता,
__ भवाऽन्धकूप-सम्पतज्जनाऽतिरोधकारिकाः । समिन्धनौघ-मग्निवत्कृताऽघराशिदाहिकाः,
सुधायमानदेशना ददौ चरित्रनायकः ॥३५२॥ (युग्मम्) वंशस्थवृत्तम् - सुराः सुधांशोरिव सर्वसज्जनाः,
तदाननाऽब्ज-च्युत-सत्कथाऽमृतम् । निपीय कामं परिहर्ष-वारिधौ,
न्यमाक्षुरत्यन्तमकल्मषीकृताः ॥३५३॥ ततः समादाय विशेष-भावना
प्रभावना-मागत-भक्तिमज्जनाः ।