________________
४३२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आचार्यवर्यस्य विहारजन्यः, .
__ श्रमः शरीरार्तिनिपीडितस्य ॥१६७॥ शोभास्पदो नो नहि भासते स,
यतो महापुण्यसुयोगतोऽयम् । प्रभावशाली सुचरित्रपात्र
माचार्यवर्योऽत्र पुरे समागात् ॥१६८॥ (युग्मम्) ततः सुशीलान्वितसाधुजुष्टा,
अस्माभिराचार्यवराः स्वकीये । पुरेऽत्र वर्ष निवासहेतोः,
संप्रार्थनीया अतिनम्रवाग्भिः ॥१६९॥ इत्थं विनिश्चित्य यमीन्द्रपार्श्वे,
श्रीसंघमुख्याः समयुस्तदानीम् । संप्रार्थयन्ताऽऽग्रहपूर्वमेनं,
वर्षतुवासाय पुरे स्वकीये ॥१७०॥ अवोचताचार्यवरेण्य इत्थं,
सुकोमलैस्तोषकरैर्वचोभिः । एतच्चतुर्मासनिवासहेतो
र्बद्धोऽस्मि पूर्वं वचनप्रदानैः ॥१७१॥ एकत्र वर्षर्तुनिवासकार्य,
स्वीकृत्य चाऽन्यत्र पुनस्तदर्थम् । अङ्गीकृतिः साधुवरैर्न कार्या,
न निश्चयोल्लङ्घनमर्हणीयम् ॥१७२॥