SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४०८ तत्रैव वर्षे नगरे च तस्मिन्, वैशाखमासस्य सुशुक्लपक्षे, सूरिस्तृतीयाख्यतिथौ मुदाऽर्ह आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् चैत्यप्रतिष्ठां व्यदधाद् विधिज्ञः ॥४०॥ अत्रागमन्नागमवेदिसूरेः, संप्रार्थनार्थं स्वपुरागमार्थम् । सीपोरनाम्नो जिनधर्मधाम्नः, पुरस्य वित्ता वरसंघप्रष्ठाः ॥ ४१ ॥ तेऽभ्यर्थनां सूरिपतेः समीपे, पुरं पवित्रं च विधातुकामाः । अकार्षुरत्यन्तसमादरेण, सूरीश्वराः स्वीकृतवन्त एनाम् ॥४२॥ गुरूत्तमानां गुरुमागमं ते, श्रुत्वा सहर्षं नगरस्य लोकाः । श्रीजैन - जैनेतरभावभेदं, त्यक्त्वा व्यधुः सोत्सवपूःप्रवेशम् ॥४३॥ शार्दूलविक्रीडितम् - श्रीसीपोरपुराद् विहृत्य सनयः श्रीनीतिसूरीश्वर - स्तारङ्गाभिधतीर्थमुत्तममगात् शिष्यैः प्रशिष्यैः समम् । मार्गे मार्गगताँश्च नागरजनान् ग्राम्यान् समुद्बोधयन्, कुर्वाणो नयनोत्सवं भविनृणां, तीर्थैकतल्लीनहृत् ॥४४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy