SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४०७ वडनगरनागराणां स्वग्रामे जिनचैत्य प्रतिष्ठायै विज्ञप्तिः । उपजातिः - मार्गागतान् भव्यजनान् सुबोधै विबोधयन् सूरिवरो व्रतीन्द्रः । क्रमादसौ डाङ्गरवा-कियोल नामादिकान् ग्रामवरांश्च गत्वा ॥३५॥ शिखरिणी - महेसाणानाम्नि श्रितजिनपचैत्ये पुरवरे, समृद्ध्या संपूर्णे विविधवरघोटेन सहितः । श्रुतज्ञः सन्मान्यः शुभकृतिवदान्यो यमिपतिः, प्रवेशं सद्वेशैः सह पुरजनैः सूरिरकरोत् ॥३६॥ (युग्मम्) वसन्ततिलका - सूरिविहृत्य निजशिष्यगणैः सहाऽस्याः, पुर्याश्च वीसनगराख्यपुरेऽतिरम्ये । बेण्डाद्यवाद्यसमलङ्कतसञ्जनौधैः, सार्धं प्रवेशमकरोदतिमानपूर्वम् ॥३७॥ मालिनी - तदनु विजयपूर्वो नीतिसूरीश्वरोऽस्माद्, अकृत वरमुनीन्द्रैः संवृतोऽसौ विहारम् । वडनगरमथाऽगात् तत्र तस्य प्रवेशं, सकलपुरजनौघोऽकारयद् वाद्ययुक्तम् ॥३८॥ पुरे हि तस्मिन् जनताऽभिरामे, पुरप्रवेशोत्तमवासरे च । श्रीमञ्जयानन्दमुनीतिनाम्ने, दीक्षामदात् श्रीबृहती मुनीन्द्रः ॥३९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy