SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पट्टावली अनुवर्तते । सवाइचन्द्रस्य महर्द्धिकस्य, स्वधर्मपल्यामतिशीलवत्याम् । जीवेतिनाम्न्यां बहुरूपवत्यां, भीखाऽभिधानो ह्युदपादि सूनुः ॥१४५॥ युग्मम् बाल्य-प्रभृत्यैव तदीय-चित्तं संस्कार-रागेण हि धार्मिकेण । आसीच्च रक्तीकृतमेतकस्मात्, __ तद्भावना नित्यमवर्वृधीच्च ॥१४६॥ स्वस्मिन्नजस्रं रममाण एष, सर्वं प्रपञ्चं क्षणिकं प्रपश्यन् । सदैव सद्धर्म-विधावरज्यत्, संसारवासादपि संव्यरंसीत् ॥१४७॥ आर्या-गीतिः - तावदुपैदनुयोगा-ऽऽचार्यः पन्यास-रत्नविजयः श्रीमान् । भ्राम्यन् देशमनेकं, भव्याऽऽत्मनां प्रतिबोधनं ददमानः ॥१४८॥ शिखरिणी - पुनानोऽयं पृथ्वीमनिशमनघः स्वाङ्घि-कमलैः, __जयन् वादिव्राजं दिशि दिशि सुयुक्त्या जिनगिराम् । नयंस्तान् सन्मार्ग कुपथ-गत-लोकानहरहो (हर् ), हरन् मोहं नृणां तम इव दिनेशः समुदितः ॥१४९॥ उपजातिः - व्याख्यान-पीयूषमलं सुभव्यान्, संसार-वाधिं तितरीषु-जीवान् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy