SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ग्रन्थसमाप्तिः । उपजातिः — आचार्यवर्यस्य गुणैर्वरेण्यैराकर्षितेनाऽऽत्मनि हर्षितेन । साहित्य- सद्व्याकरणे च शास्त्रे, आचार्य इत्युच्चपदाऽङ्कित्तेन ॥ ९०२ ॥ वसन्ततिलकावृत्तम् - श्रीपादलिप्तनगरे नगरेषु नन्द्ये, शत्रुञ्जयाश्रयतया समविश्ववन्द्ये । मोरारजीतनुजुषा शिवशङ्करेण, उपजाति: पूर्णीकृतं सुचरितं च यतोऽवशिष्टम् ॥९०३॥ पञ्च-ग्रह-ग्रह-धराऽङ्कमिते सुवर्षे, मासोत्तमे नभसि शुक्लसुपूर्णिमायाम् । आचार्यवर्यचरितं चरिताऽवदातं, पूर्णीकृतं सुगुणपूर्णतमं तदेतत् ॥९०४॥ नेदं कृतं कविवरेन्द्रसुकीर्तिलोभाद्, नैवाऽथवाऽऽत्मगतबुद्धिविशिष्टमोहात् । किन्त्वीदृशो मुनिपतेश्चरितं विधाय, भव्योच्चबोधजननाय मम प्रयासः ॥ ९०५ ॥ अद्यन्तमेतत् सुधियः पठन्तो, भवन्तु चाऽऽदर्शमया जगत्याम् । एतद्धियैवैष महोच्चबुद्धिः, पन्यास- कल्याणमुनिर्महात्मा ॥ ९०६ ॥ ३५१ ( युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy