SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ चित्तोडदुर्गप्रति गमनम्। शार्दूलविक्रीडितम् - श्रीमानुच्चतमः प्रसङ्ग इह सन्मेवाडभूमीतले, लोकानामनुमोदनाविषयभाग् ग्रामे पुरे चाऽभवत् । भूरिस्थानकवासिभव्यमनुजास्तेराख्यमार्गाश्रिता, आसंस्तेऽपि जिनेशपूजनविधौ युक्ता मुदा ये तदा ॥८१२॥ उपजातिः - अस्यां च पुर्यां समुपागतैर्हि, चित्तोडदुर्गस्य निवासिजैनैः, संप्रार्थिताः सूरिवरास्तदानीं, स्वकीयपुर्यागमनाय ननैः ॥८१३॥ स्वीकृत्य याञ्चां पुरतस्तदानीं, शिष्यैः प्रशिष्यैः सह सूरिसूर्याः । विहृत्य तस्मादगमन् पुराणं, __चित्तोडदुर्गं समदुर्गवित्तम् ॥८१४॥ चित्तोडदुर्गं खलु पूर्वकाले, समृद्धिमत् ख्यातपुरं बभूव । अस्त्यत्र चैकं सुपुरातनोच्चं, ___ दुर्गं मनोह्लादि सुविश्ववर्ण्यम् ॥८१५॥ बभूव तस्योपरि सद्गृहाणां, लक्षत्रयं पौरसमृद्धियुक्तम् । इदंप्रकारा किल किंवदन्ती, चाऽत्रत्यलोकोदितविश्रुताऽस्ति ॥८१६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy