________________
प्रांतिजादिग्रामाः पवित्रिताः ।
उपजाति:
आनन्दपूर्वं विजयान्तवित्तं,
कृत्वाऽभिधानं नवदीक्षितस्य ।
दत्त्वोपदेशं स्वचरित्रगुप्त्यै,
स्वकीयशिष्यं व्यदधुर्मुनीन्द्राः ॥७५३ ॥
प्रांतीजसद्ग्रामवराद् विहृत्य,
द्रुतविलम्बितम् -
'रूपाल-टींटोइ' सुविश्रुतायाम् ।
तथाऽपरग्रामसमूहभूमौ,
श्रीसूरिसूर्या व्यहरन् समन्तात् ॥७५४॥
स गतवान् प्रभुकेसरियाऽभिधे, जगति तीर्थवरे वरसंयमी ।
वृषभलाञ्छनकेसरियाप्रभो
रनुपमां प्रतिमां समवन्दत ॥७५५॥
उदयपूर्नगराऽभिनिवासिभि
र्जिनपशासनसम्मतसंघकैः ॥
विजयनीतिमुनीशवरस्तदा,
स्वनगराऽऽगमनाय निमन्त्रितः ॥७५६॥
अथ मुनीश्वर आत्मगणैः सह, जिनपशासन वृद्धविधित्सया ।
उदयपूर्नगरस्थजनाऽर्थनां,
हृदि विधृत्य तदीयपुरेऽगमत् ॥७५७॥
३२१