________________
२६३
अर्बुदानेरुपरिदेलवाडा तीर्थयात्रा । सन्तस्थिवान्मासमिहैकमेष,
शुभस्य साधोर्ब्रहतीं च दीक्षाम् । प्रदत्तवान् पौरजनानशेषा
नुपादिशच्छ्रावकशुद्धधर्मान् ॥४४६॥ सूरीश्वरस्याऽस्य विशेष-धर्मो__पदेशमाकर्ण्य जनाश्च सर्वे । सम्यक्त्वद्याढय समवापुरेते,
___ स्वधर्मनिष्ठामचलां प्रचक्रुः ॥४४७॥ इतो ययौ सूरिवरो हि जावा
लपत्तनं तत्र समस्तपौराः । महामहैरेनमवीविशश्च,
सुसञ्जितं सौवपुरं प्रहर्षात् ॥४४८॥ संघाऽऽग्रहात्प्रावृषि सन्निवस्तुं,
तत्रैष निश्चित्य महोग्रतेजाः । पाडी समागात्पुरवासिभिश्च,
प्रावेशि बेण्डादिक-वाद्यनादैः ॥४४९॥ धर्माऽमृतं तत्र जनांश्च भव्यान्,
सम्पाय( य नार्हत-धर्मतत्त्वम् । प्रवेदयन्नेष कियदिनानि,
सुखेन तस्थौ मुनिराजवर्यः ॥४५०॥ विहृत्य तस्माद्बलदूटमागात्,
संघः प्रवेशोत्सवमद्वितीयम् ।