SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ राजनगरे महोत्सव-डेलाभिधोपाश्रये साधूनां योगद्वहनम् । रेमन्त - शैलोपरि-जायमानसुजीर्णचैत्योद्धृति- फण्डमध्ये | दातुं यथाशक्ति महेभ्य-वर्गान्, आचार्य-वर्यः कथयाञ्चकार ॥ २८५ ॥ संग्राह्य-नैकेभ्य-सुदत्त - षष्टि सहस्रमुद्राः समितौ च तस्याम् । सम्प्रैषिषत्तत्र तदीयकार्यं, जञ्जन्यमानं त्वरया किलाऽऽसीत् ॥ २८६ ॥ ततः सुलग्ने वलसाडवासि श्रीरायचन्द्रं मतिमन्तमेतम् । संदीक्ष्य तन्नाम - गुणेति चक्रे, शिष्यो बभूवांश्चरितस्य नेतुः ॥२८७॥ दीक्षार्थिनं केशवनामधेयं, सुश्रावकं गुर्जर - पट्टणस्थम् । सन्दीक्ष्य सूरिः कमलेतिनाम, धृत्वा स्वशिष्यं कृतवांश्च तत्र ॥२८८॥ शार्दूलविक्रीडितम् - इत्थं व्योम - वसु-ग्रहेन्दु-तुलिते सम्वत्सरे वैक्रमे (१९८०), साकं शिष्यवरैः स राजनगरे डेलाऽभिधोपाश्रये । चातुर्मास्यमसौ व्यधात् पुर - जनाऽत्यन्ताऽऽग्रहात्सूरिराट्, धर्मोद्योत्तमचर्करीदतितरा भव्याञ्जनान् बोधयन् ॥२८९॥ व्याख्यानेऽन्तगढा( डा ) भिधं गुरुवर: सूत्रं पवित्रं मुदा, मेघ-ध्वान - विजित्वराऽतिनिनदैः सार्थं समश्रावयत् । २३३
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy