SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - युगप्रधानस्य महीयसोऽस्य, श्रीनीतिसूरेरुपगत्य पार्श्वम् । तत्कार्य-सिद्धिं कथयाम्बभूवुः, श्रुत्वा भृशं सम्प्रससाद सूरिः ॥२५७॥ प्रारेभिरे तत्र सुजीर्ण-चैत्यो द्धारं ततः सर्वजनास्तदर्थम् । श्रीमन्तमेनं मुनिराज-सूरी श्वरं चतुर्मासमिहैव कर्तुम् ॥२५८॥ व्यजिज्ञपन् सोऽपि सुलाभ-हेतो स्तत्रैव जूनागढ-पत्तने हि । प्रावृष्यतिष्ठन्नव-वाजि-रन्ध्र ग्लौ-संमिते विक्रमराजवर्षे (१९७९) ॥२५९॥ (युग्मम्) आर्यागीतिः - . आषाढ-शुक्लपक्षे, चतुर्दशीतः प्रागेव जीर्णोद्धृतेः । स्थानमपि विनिश्चेतुं, तत्र सम्भावित-व्ययमपि परिच्छेत्तुम् । समुपादिदेश संघ, तदाय-व्ययाऽऽदिसन्दर्शिनीमेकाम् । समतिष्ठिपच्च समिति, सैव सकलमपि कार्यं कर्तुं लग्ना ॥२६१॥ (युग्मम्) श्रीमान् जूनागढीय-बाष्प-यान-कार्यालयस्थानां मुख्यः । हुकुमचन्दज-डाह्याख्यः, सुश्रमेण तत्कार्यं सुगमं चक्रे ॥२६२॥ वैतालीयम् - प्रतिनगरं कार्यकारिणी, समितिरियं विततार सूचनाम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy