SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ चाणसग्रामे चरित्रनेतुरुपदेशः । पञ्चाशकग्रन्तमशिश्रवच्च, मेघाऽऽखाऽऽडम्बरजित्स्वनेन ॥५३॥ इहत्य-देवाऽऽलय-जीवरक्षा संस्थाऽऽलयाऽऽय-व्यय-दर्शनाऽऽदि । नैकोऽपि चक्रे तत एव तत्र, निरीक्ष्य हानि महतीं भवन्तीम् ॥५४॥ गुरुः समूचे खलु देशनाया ___मुपस्थितं तर्हि (तत्र) समस्त-संघम् । महानुभावा ! ध्रुवमेव वित्त, . यदेष कालो ग्रसितुं समेषाम् ॥५५॥ प्रतीक्षमाणोऽवसरं शिरःसु, परिभ्रमत्येव दिवानिशं वै । कदा ग्रहीता स हि नेति कोऽपि, वेविद्यते मानव जीव एषः ॥५६॥ (त्रिभिर्विशेषकम्) आयुश्च नित्यं परिहीयते हि, विद्युनिभं सूर्य-गमाऽऽगमाभ्याम् । अतः स्वहस्तेन सुविज्ञजीवाः, प्रकृर्वते यत्सुकृतं तदेव ॥५७॥ हिताय नृणां भवतीति मत्वा, स्वधार्मिकाऽऽय-व्यय-लोकनाऽऽदि । कृत्वा प्रदेयं झटिति प्रदत्त, ग्राह्यं च यत्तत्सकलं हि लात ॥५८॥ (युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy