SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७३ चरित्रनेतुरर्बुदाचले गमनं तत्र च विजयनेमिसूरीश्वराणां मीलनम्। कुम्भस्य राज्ञोऽभिधया प्रसिद्ध, सन्तिष्ठते रम्यतरं वने तत् । चत्वारि चैत्यानि जिनेश्वराणां, निषन्ति तस्मिन्नतिसुन्दराणि ॥९५५॥ मनःसुखाख्यो भगुनन्दनोऽत्र, रम्यां विशालां खलु धर्मशालाम् । अचीकरत्तत्र जनाः समेता-- वसन्ति नैवाऽत्र गृहाणि सन्ति ॥९५६॥ इतो विहृत्याऽऽगतवान् स तार ङ्गाज्याख्य-तीर्थं सकलैः सुशिष्यैः । सार्धं विलोक्य प्रभु-वीतरागं, मुहुर्मुहुस्तत्स्तवनं प्रचक्रे ॥९५७॥ सम्प्रस्थितस्तत्पुरतो जिताऽक्षः, खेरालुनाम्नी नगरीमियाय । अत्युत्सवैः पौरकृतैः प्रविश्य, पुरं ददौ चारु-सुदेशनां सः ॥९५८॥ इतश्चलित्वा प्रभुराजगाम, शीपोरमत्रत्य-जनैरशेषैः । आडम्बरेणैष महीयसा हि, प्रावेशि पुर्यां बहुमानपूर्वम् ॥९५९॥ संसार-दुःख-दहनाऽधिक-तप्त-जीव निरशेष-तापहरणं सकलाऽघनाशम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy