SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७० __ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भामशाह-परिकारित-युग्मं, विद्यते परमसुन्दरमुच्चैः ॥९३९॥ मन्दिरं प्रतिपुरं परमेकं, चाऽस्ति भूरि-गिरि-शोभित-देशः । मानवाश्च सरला अबुधत्वात्, सन्ति धर्म-दृढता-परिमुक्ताः ॥९४०॥ उपजातिः - अतश्च शास्त्राऽध्ययनाय तेषां, विद्यालयाऽऽवश्यकताऽस्ति तत्र । तदर्थमासीद्यतमान एष, परन्तु देहे चरितस्य नेतुः ॥९४१॥ अस्वास्थ्यमाकस्मिकमाजगाम, महत्तरं तेन च हेतुनाऽसौ । तदैशिकं दीर्घविहारमाशु, विमुच्य चाऽऽयिष्ट सदेसुरीं ताम् ॥९४२॥(युग्मम्) समभ्युपेतं तमशेष-पौराः, श्रद्धालवस्ते महतोत्सवेन । सम्मान्य निन्युः पुरमेषकोऽदाद्, धर्मोपदेशं सम-शास्त्र-सारम् ॥९४३॥ प्रस्थाय तस्मादयमैच्च घाणे रावं पुरं तत्र समस्तलोकैः । सुसत्कृतः सर्वजनान् प्रबोध्य, स सादडी सन्नगरी समागात् ॥९४४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy