SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ देलवाडानगरे सत्यविजयपन्यासस्य तुष्टा शासनदेवी । कानूडपुर्यामपि भासमाना, चैत्यत्रयी सम्प्रति वर्तते हि ॥९३३॥ वैतालीयम् विपुले लघुसादडीपुरे, भव्ये स्तो जिनमन्दिरे वरे । नागोरी - चन्दनाऽऽदिको, मल्लो निवसति धर्मरागवनान् ॥९३४॥ सन्ति च सर्वे वशम्वदा, लुम्पाका अपि चाऽस्य धीमतः । नींबाडापत्तने महा-चैत्यानां त्रितयी विशोभते ॥ ९३५ ॥ उपजाति: मालिनी स्वागता -- तच्चित्रकूटाऽभिधपत्तनाऽन्त चैत्यद्वयं सम्प्रति भाति भव्यम् । तद्दुर्गमध्येऽप्यतिभव्यमस्ति, चैत्यत्रिकं तीर्थकृतामिदानीम् ॥९३६॥ निरुपममिह दुर्गं दुर्भिदं शत्रुवर्गे - र्दृढतरमतिशोभं वर्तते दर्शनीयम् । प्रथम-समय-वार्तावेदिनां वर्णनीयं, वसतिरपि जनानां जैन - जैनेतराणाम् ॥९३७॥ इह हि विजय - कीर्ति स्तम्भ आरोपितोऽस्ति, प्रथित-परम- वीराऽग्रेसराणां सुपुंसाम् । ललिततर- सुदुर्गाऽधस्तले वर्तते पू १६९ विपणिरपि विशाला ष्टेशनश्चाऽस्ति रम्यः ॥९३८ ॥ तत्र राजनगरेऽपि च चैत्यं, पौरमेकमपरं गढमध्ये |
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy