SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १६२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततो विहृत्याऽऽगतवान् क्रमेण, स मावलीनामपुरं मुनीन्दुः । सच्चक्रुरतं सकलाश्च पौराः, सद्देशनामेष ददौ च तत्र ॥८१५॥ इतश्चलित्वा सणवाडनाम्नी माजग्मिवानेष भुवं पुनानः । तत्राधिकाऽऽरब्ध-महोत्सवेन, पुरं महीयान् प्रविवेश रम्यम् ॥८९६॥ प्रौढप्रतापो मुनिराज एष, श्रीवीर-सम्भाषित-शुद्धधर्मम् । व्याहृत्य गोष्ठयां भवसिन्धु-पोतं, लोकानशेषान् बहुधोपचक्रे ॥८९७॥ ततः करेडामुपयात एष, सुसत्कृतः श्राद्धजनैरदभ्रम् । धर्मोपदेशाऽमृत-भूरिवर्षां, विधाय सर्वान् सुजनानतीत् ॥८९८॥ कपासणाऽऽख्यं पुरमाजगन्वान्, सुश्रावकाऽऽरब्धमहामहेन । पुरं प्रविष्टो मुनिराजवर्यः, प्रदत्तवानत्र महोपदेशम् ॥८९९॥ जास्माऽभिधानं नगरं ततोऽसा ___वासेदिवान् पौरजनैश्च तत्र । सम्मानितोऽमोघसुदेशनां स, दत्त्वा च लोकान्मृडयाञ्चकार ॥९००॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy