SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गुर्वज्रिपद्म-मकरन्द-मिलिन्दभूतो, वैनीत्यवानखिलसद्गुणता-निधानम् ॥८८३॥ हा ! हन्त ! निर्दययमो जगदद्वितीय तीर्थङ्करान् सुबलिनोऽखिलचक्रिणोऽपि । नोज्झाञ्चकार न समुज्झति नोज्झिताऽग्रे, तस्मादमुं सुमुनिरत्नमपाऽहरद्धि ॥८८४॥ वर्षद्वयं निरतिचार-सुसंयमं सोऽ त्यन्तम्प्रपाल्य गतवान् गतिमुत्तमां वै । पुण्याऽर्जनेन समभूत्सफलं तदीयं, मानुष्यजन्म बहुदुर्लभमत्र लोके ॥८८५॥ रम्यं विमानचिरं विरचय्य सर्वे तस्मिन्निधाय शवमुत्तमभाववन्तः । आडम्बरेण महता बहुवाद्यनादै र्नीत्वा श्मशानमदहन् विधिवत्सशोकाः ॥८८६॥ उपजातिः - अथैतकस्मान्नगराद्विहृत्य, जोजुष्यमाणः सकलैश्च शिष्यैः । स धन्वदेशे विजहार सत्य-धर्मोपदेशं जनतासु कुर्वन् ॥८८७॥ आर्याहित्वा मन्दिरपूजां, स्थानकवासितामुपगता बहुशः । ढुण्ढकीयोपदेशा-ञ्छावं श्रावमबुधाः श्राद्धाः ॥८८८॥ गीतिः - अबुधांस्तानपि जीवान्, प्रतिबोध्य शुद्धधर्माऽऽश्रितानकरोत् । एतद्गुरूपदेशात्, लेभिरे तेऽपि सम्यक्त्वाऽऽधिक्यम् ॥८८९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy