SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५२ उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अष्टोत्तर - स्नात्रसमर्चनादि, बभूव नैकं शुभकार्यमत्र । स्वधर्मिवात्सल्यमभदनेकं, पदप्रदाने जनताकृतं हि ॥८४१ ॥ सुश्रावकाणां सदनं सहस्त्रं, पूर्वं किलाssसीदिह राधनाऽऽद्ये । पुरेऽधुना तत्कलिकालदोषान्, न्यूनत्वमाप्तं ह्युपलक्ष्यते हि ॥८४२ ॥ अद्यापि चैत्यानि समुल्लसन्ति, भूताऽक्षिदघ्नानि विभासुराणि । तारापथ - श्लेषण- कारकाणि, प्राच्यानि तस्मिन्नगरे महान्ति ॥८४३ ॥ मसालियोपाख्यमहाजना ये, वसन्ति तस्यां पुरि पूर्वमेते । महासमृद्धा जनताऽग्र-गण्या, आसन्निदानीमपचीयमानाः ||८४४ ॥ कृत - प्रयाणस्तत एतकस्य, नेता चरित्रस्य महासुविद्वान् । शङ्खेश्वर-श्रीप्रभु-पार्श्वनाथ यात्रां व्यघात् साकमशेष - शिष्यैः ॥८४५ ॥ विहृत्य तस्मात् समुपाजगाम, शत्रुञ्जयं तीर्थविशेषमेषः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy