SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५० __ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तेनैव नित्यनियमेन जगज्जनाना मत्रापि राधनपुरे घटना बभूव ॥८३०॥ उपजातिः - अक्षान्ति-वह्नौ परितः प्रदीप्ते, स्वम्मिणां तत्र विधर्मिणोऽपि । लब्धाऽवकाशाः सकला हसन्ति, क्षिपन्ति सम्प्रेरणमाज्यमाशु ॥८३१॥ तमेष दौर्जन्य-समिन्धनेन, जाज्वल्यमानं शमताऽम्बुनैव । शान्तं प्रकर्तुं नितरां प्रयेते, ___ परीषहांस्तानसहिष्ट सर्वान् ॥८३२॥ आत्मार्थिनस्ते सकलाः खलिष्ठाः, शान्तिं किलैतस्य विहन्तुकामाः । यथाबलं ते ह्ययतन्त तत्र, प्रान्ते बभूवुर्वितथ-प्रयत्नाः ॥८३३॥ महीयसः केसरिणः पुरस्ताद्, विकुण्ठिता शक्तिरिव द्विपानाम् । तार्थ्यस्य वाऽग्रे पवनाऽशनाना मग्रेऽस्य तेषां द्विषतां बभूव ॥८३४॥ शिखरिणी - असावासीत्तस्मिच्छर-दहन-संख्यैर्मुनिवरै श्चतुर्मास्यां श्रीमानमित-महिमा राधनपुरे । तदा वीरः सूरिर्जलधि-मुनिभिः साकमवसद्, द्विषन्नासीद्वाढं चरित-पतिमेनं खलतया ॥८३५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy