SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ राधनपूरे शान्तिस्नात्राद्युत्सवाः । वसन्ततिलका तेष्वेव देवविजयो मुनिराट् प्रताप पन्यासिनः समभवद्वरधीः सुशिष्यः । श्रीमान् दयाविजय' ईड्य वरस्य तस्य, पन्यास - भावविजयस्य बभूव शिष्यः ॥८२५॥ श्रीदान- हर्षविजयौ सुधियौ विनीतौ, प्रज्ञाऽऽकरावभवतां चरितस्य पत्युः । शिष्यौ च भक्तिविजयो वर-सिद्धिसुरे रन्तेसदो विनय - साधुवरस्य शिष्यः ॥८२६॥ वर्वर्ति सम्प्रति स एव हि भद्रसूरि राचार्यतामुपगतो जनताऽऽदृतश्च । भव्याञ्जनानतितरां प्रतिबोधयन् हि, श्रीवीर - शासन - वने च विजर्हरीति ॥८२७॥ इत्थं ह्यनेक- शुभकृत्यमसौ वितन्व न्नुत्साहसम्पदमशेष-महाजनानाम् । संवर्धयन् हृदि सुखेन चरित्रनेता, वर्षादिनान्यगमयत्सकलानि तत्र ॥८२८॥ लोकेष्वसाधुजनता परकीयवृद्धिं, दृष्ट्वा स्वकीयहृदये परितातपीति । साधुर्जगद्धितरतः सततं परेषां, तां वीक्ष्य सौवहृदये परजर्हषीति ॥८२९ ॥ एकोन्नतौ भवति यत्र परस्य हानि १४९ र्ष्याऽग्निराशु नियतं समुदेति तत्र ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy