SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४१ उंझापुरे प्रतापविजयस्य कालगमनम् । उपजातिः - प्रभावनायां प्रतिवासरेषु, समागतेभ्यः सकलाऽऽर्हतेभ्यः । सितोपलानां पुटकानि नालि केरांश्च भक्त्या परया वितेरुः ॥७८२॥ बढ्या च भक्त्या जिन-पूजनानि, . नानोपचारैरभवन्नजस्त्रम् । स्वधर्मि-वात्सल्यमपि ह्यनेकं, चक्रुर्महेभ्याः क्रमवृद्ध-भावैः ॥७८३॥ तत्रोत्सवे तैरतिमानपूर्व-मामन्त्रितश्चैष चरित्रनेता । उपाश्रये तत्र विराजमानः, सारोपदेशैर्बहुभिश्च तेषाम् ॥७८४॥ दिवं प्रयातस्य गुरोर्गरिष्ठ शोकाऽपनोदं कृतवान् समेषाम् । पश्चाडहेलाऽभिधया प्रसिद्व स्योपाश्रयस्याऽखिल-नेतृवर्गाः ॥७८५॥ अत्याग्रहेणैनमुपाश्रये स्वे, डेहलनाम्ना नगरप्रसिद्ध । वितत्य चारूत्सवमानयन्त, श्रीमन्तमत्यन्त-सुकान्त-कीर्तिम् ॥७८६॥(युग्मम् ) भुजङ्गप्रयातम् - नवाऽङ्ग-ग्रहेन्दु (१९६९) प्रमाणे सुवर्षे, मधौ मासि कृष्णे दले सत्यकस्य । तिथौ स व्यहार्षीदितोऽशेषशिष्यै रदभ्र-प्रभावः क्षितावद्वितीयः ॥७८७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy