SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - चैत्योपरिष्टात्कलशार्पणं हि, चेक्रीयते भक्तिभरेण लोकैः । यथा तथाऽनुष्ठित-सूपधानाऽ वसान-मालापरिधापनं वै ॥६०४॥ मेघो मयूरानिव सर्वपौरान्, . आजिह्नदच्छासन-कैरवेन्दुः । चतुर्विधं धर्ममवीवृधच्च, चरित्रनेता पुरि सम्यगस्याम् ॥६०५॥ एकत्र तिष्ठन् सुचिरं हि साधुः, स्वाऽऽचार-वैरुद्धयमवश्यमेति । समेधते वाऽधिकराग इत्थं, ध्यायन् स्वचित्तेऽवसरे विहर्तुम् ॥६०६॥ स्वाचार-सम्पालन-तत्परो य स्तिष्ठत्यजस्रं श्रमणः स एव । चारित्र-शाली जनता तमेव, पोपूज्यते सादरमिद्ध-भक्त्या ॥६०७॥ देशे च यस्मिन् विचरन्ति नैव, मुनीश्वरा धार्मिक-शिक्षणार्थम् । तत्रैव देशे मयकाऽधुना हि, विहृत्य लोकाः प्रतिबोधनीयाः ॥६०८॥ यथा दरिद्रस्य धनप्रदानं, बुभुक्षितस्याधिक-भोज्यदानम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy