SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ राजकोटनगरे चातुर्मासः । उपजातिः ततोऽदत्त नादैः पयोदाऽनुकारैः, सभायां महत्यां गुरुर्देशनां सः । उदारां महाऽर्थां सतां बोधिबीज प्रदात्रीमपापां सुधामुद्गिरन्तीम् ॥५६४॥ तत्राऽऽगमद्राधनयुक्पुरीयः, सौभाग्यचन्द्राऽऽत्मज - खोडिदासः । महेभ्यवर्यः पुरि चोटिलायां, चरित्रनेतुः सुगुरोः समीपम् ॥५६५ ॥ सिद्धाऽद्रिसंघे गमयिष्यमाणे, निनीषुरेतं मुनिराजवर्यम् । व्यजिज्ञपन्नाथ ! तवोपदेशात्, सिद्धाऽद्रिसंघं परिचालयिष्ये ॥५६६॥ प्रयाहि तस्मिन् मयि सुप्रसीद, कुरु प्रयाणं सह साधुवर्गैः । पिपूर्हि नः कामममुं सुधर्म्यं, विना भवन्तं भविता न चैतत् ॥५६७॥ तदाग्रहादाशु ततो विहृत्य, मार्गे प्रति ग्राम्य जनान् सुभव्यान् । बहूपकुर्वन्नचिरं प्रधीमान्, सद्राधनाद्यं पुरमाजगन्वान् ॥५६८॥ अथाऽऽगतान् विश्वजन-प्रयूज्यमान्, पौरा विशेषोत्सवमाशु कृत्वा । १०१
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy