SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ९८ बेण्डाऽऽदिवाद्यैर्युगपद्रणद्भिः, प्रवेशयामासुरिमान् स्वपुर्याम् ॥५४८ ॥ चरित्रनेता जलमुक् - स्वनाऽनुकारि-स्वनेनैष जगद्धितैषी । अमेय-लोकान् परिषत्समेतान्, अशुश्रवद्धर्मकथाः पवित्राः ॥५४९ ॥ वसन्ततिलका आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् - हे भव्यवृन्द ! जगतीतल एतकस्मिन्, स्वप्नोपलब्ध- सुखवन्नियतं विभाति । स्त्री- पुत्र-बन्धु- धन-धान्य- गृहाऽऽदिसौख्यं, नैकोऽप्यमीषु हितकृद्भविताऽऽत्मनो हि ॥५५० ॥ पानीय- बुद्बुदगणायित-सर्वमेत दस्तीति चेतसि निजे परिचिन्त्य तेषु । मोहं जहीत सकलाः कुरुताऽऽत्मशक्त्या, धर्मे मतिं भजत तीर्थकृदङ्घ्रिपद्मम् ॥५५१॥ - देहोऽपि योऽस्ति परम प्रिय आत्मनो हि, पुत्रस्तमेव मम तात इति ब्रवीति । भार्या च मे पतिरसाविति भाषतेऽमुं, गृध्रादयोऽपि मम भक्ष्य इति ब्रुवन्ति ॥५५२ ॥ मोमुह्यते च सकला जनता यकस्मिन्, पोपुष्यते च सततं यमिहाऽऽत्मबुद्ध्या । तञ्चाऽपि कालवशग: सकलो जहाति, रोरुद्यमान- वनितादिकमीक्षमाणः ॥ ५५३ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy