________________
स्वजन्मभूमि-वांकानेरपूरे प्रवेशः, तत्र देशना च । गीतिः - न ह्येकत्र तिष्ठेयु-रिति शिष्टाऽऽचाराऽनुसृत्यैव सः । पन्न्यास-“नीति" विजयो, विजहार मासकल्पं कुर्वाणः ॥४८६॥
(युग्मम्) प्रतिपुरमयमुपकुर्वन्, सुपाययन् देशनाऽमृतं भव्यान् । सौवक-जन्मस्थानं, वांकानेर-नगरदिशि स विजहार ॥४८७॥ दीक्षा-ग्रहणात्पश्चा-दसौ न कदाऽपि तत्र पुरा गतवान् । इत्यौत्सुक्याज्जनता, दशदशक्रोशाद्रष्टुमायाति ॥४८८॥ शार्दूलविक्रीडितम् - इत्थं सर्वजनानमन्दमतिमानानन्दयन् नित्यशः, पन्न्यासः स हि नीतिनामविजयः सन्तारयन् प्राणिनः । वाकानेर-महाविशालनगरी-मागच्छदच्छाऽऽशयः, श्रीमच्छी-गुरुवर्य-भावविजयाऽऽद्यैर्मु( द्यैर्वै मुनीन्द्रैः समम् ॥४८९॥ पौरा नैकविधैर्मृदङ्ग-पटहै: सद्वेण्ड-शङ्खाऽऽदिभि
दित्रैः परिपूरयद्भिरखिला आशाः स्वनैरुच्चकैः । गायद्भी रमणीजनैरतितरां चन्द्राऽऽस्य-बिम्बाऽधरैरित्थं चारुमहोत्सवेन नगरी प्रावेशयन् सद्गुरून् ॥४९०॥ संख्याऽतीत-जनैः समं गुरुवरं मार्गे व्रजन्तं मुदा, द्रष्टुं सौध-शिरःस्थिताः सुनयनाः सम्पूर्णचन्द्राऽऽननाः । देवानां ललना इमा उपगताः ? किं नागकन्या ? इति, तारा वा पतिता दिवः क्षितितले ? ऽशङ्कत केचिञ्चनाः ॥४९१॥ सर्वे तत्पुरवासिनः सभविनो नार्यः पुमांसस्तथा, भूर्युत्काः शशिशीतलं नयनयोः कर्पूर-पुञ्जायितम् ।