SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - तृतीयः परिच्छेदः चन्द्रावतीवीरसेनयोर्दीक्षाग्रहणम् अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य तृतीयपरिच्छेदे, चन्द्रावतीवीरसेनयोर्दीक्षाग्रहणम् - विद्याप्राप्तिकारणादुन्मत्ता निर्भया वीरमती लब्धपक्षः सर्प इव, प्राप्तास्त्रः सिंह इव, स्वभावक्रूरा सातीव भीषणा बभूव । यतः - ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? । अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते?॥२६॥ मन्त्रादिप्रयोगेण स्वपतिमन्यानपि वशीचकार सर्वत्र तन्नामख्यातिश्च जज्ञे । इतश्चन्द्रकुमारोऽपि शैशवमतिक्रम्य, यौवने पदं न्यधात् । विवाहयोग्यं तं दृष्ट्वा राज्ञो गुणेश्वरस्य गुणावलीनाम्न्या पुत्र्या सह पित्रा परिणिन्ये | मणिकाञ्चनयोः संयोग इव स्वानुरूपां पत्नी प्राप्य चन्द्रकुमारः सुखेन कालमतिवाहयति स्म। अप्सरसः कथनानुसारेण तस्मिन्प्रेमपरायणा वीरमती कदाचित्स्वमातृतोऽप्यधिकं प्रेम प्रकटीचकार । अन्यदा चन्द्रावत्या सहोपविष्टस्य वीरसेनस्य चिकुरे सुगन्धितैलाभ्यङ्गं कुर्वती चन्द्रावती पलितमेकं बालं दृष्ट्वा दिवा कुमुदिनीव म्लानमुखी बभूव । विषादकालिम्ना व्याप्तमुखी सा पतिमुवाच स्वामिन् ! पराजिताखिलशत्रुर्भवान् कस्मा अपि स्वनिकटे स्थातुमवकाशं नाऽदात्, परं भवताऽप्यनिराक्रियमाणोऽयं धूर्तो निर्भयः साहसिक || २५ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy