________________
चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः
स्तम्भो देहगृहस्य मूलाधारो वर्तते । स्नानविलेपनादिभिः सदा संस्कृतोऽपि स पूर्णे काले क्षणमात्रार्थमपि स्थातुं न शक्नोति । अत उक्तम्
चन्द्रनृपदीक्षाग्रहणम्
अमेध्यपूर्ण कृमिजालसंकुले, स्वभावदुर्गन्धिनि शौचवर्जिते । कलेवरे मूत्रपुरीषभाजने, रमन्ति मूढा विरमन्ति पण्डिताः ॥३०॥
ईदृगस्थिरकायकर्गलनावाऽयं भवसागरः कथं तीर्येत ? अनेन शरीरेणाऽस्माकं सांसारिकजन्तूनां मिलनमत्र जगति न जाने कतिपयथो जातम्, परं किमपि कुत्रापि लाभदायकमधुनापर्यन्तं फलं न लब्धम् । यथा- ग्रथिलायाः स्त्रियाः शीर्षस्थो घटोऽस्थिरस्तिष्ठति तथैवैतज्जगदप्यस्थिरं वर्तते । इतोऽन्यदत्र जगति पूर्वपुण्यप्रभावेण प्राणिनो विविधमुद्योगं कृत्वा मणिमाणिक्यधनधान्यराज्यस्त्रीपुत्रादींल्लभन्ते, परमेते सर्वेऽत्रैव तिष्ठन्ति, अयं जीवश्चाऽसहाय एव रिक्तहस्तः परभवमेति । एतेष्वेकमपि वस्तु तेन साकं कदापि नानुयाति । संसारस्येमां क्षणभङ्गुरामवस्थां विलोक्य मम मनस्तस्मादत्युदासीनमस्ति । अथाऽहमत्र संसारेऽस्थित्वा मोक्षदायि चारित्रं ग्रहीतुमिच्छामि |
-
यतः
नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यदु:खम्, राजादौ न प्रणामोऽशनवसनधनस्थानचिन्ता न चैव । ज्ञानाप्तिर्लोकपूजा प्रशमसुखरतिः प्रेत्य मोक्षाद्यवाप्तिः, श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयस्तत्र यत्नं कुरुध्वम्॥३१॥ अतस्तदर्थं यौष्माकीणाऽनुमतेः परमावश्यकताऽस्ति । मम भगवतो वचःसु पूर्णविश्वासो जातोऽस्ति, अतोऽहं तस्यैव शरणे
|| २६८ ||