SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्राग्भवोदन्तः वीरमत्या कृकवाकुर्विहितः । पूर्वजनौ रूपवतीदास्या कोस्याः सेवा कृताऽऽसीत्, तस्मादत्र भवे शिवमालया कुक्कुटमानीय प्रेमलायै समर्पितः स्नेहपूर्वकं च चिरं तस्य रक्षा कृता । इत्थं मुनिसुव्रतस्वामिना श्रुतप्राग्जन्मफलोदन्तैश्चन्द्रराजादिभिर्जनैर्बह्वी सुशिक्षा गृहीता । ततो राज्ञा चन्द्रेण सुवैराग्येण कर्मजालानि मायाजालानि च छिन्नभिन्नं कृत्वा परमोपकारिणो भगवतश्चरणयोर्भक्त्या नमस्कारः कृतः । अथ चन्द्रनृपादिभिरुक्तम्हे भगवन् ! भवादृशि कर्णधारे लब्धेऽपि चेद् वयं भवाब्धिं नो तरेम, तर्हि पुनरस्माकं कृतेऽन्यः को भवसागरतारणोपकारको भवेत् ? भवताऽस्य जगतो यथार्थं भयं संदर्श्य वयं सद्धर्मकर्मसम्मुखीनाः कृताः स्मः । अथ भवत एव नः स्वकीयान् बुद्ध्वास्मत्प्रीतिरीतिर्निर्वाहनीया भविष्यति । यतो यस्मिञ्जलप्रवाहे वहनभीत्या I गजोऽपि हतपौरुष आस्ते, तत्रैव जलप्रवाहे मत्स्याः प्रतिकूलं तरीत्रति परं नैजान मत्वा जलप्रवाहेन ते नोह्यन्ते, अतो हे प्रभो! अनादिकालाद्भवभ्रमणश्रान्तेष्वस्मासु दयां विधायेतो भवसागरात्पारमुत्तार्यताम् । यतः - विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्मं न विचक्षणोऽपि । विना प्रदीपं शुभलोचनोऽपि, निरीक्षते कुत्र पदार्थसार्थम् ? ॥२७॥ अपि च अवद्यमुक्तेः पथि यः प्रवर्तते, प्रवर्तयत्यन्यजनं च निःस्पृहः । ।। २६५ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy