________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्रागभवोदन्तः
वास्ते । अत उक्तम्किं करोति नरः प्राज्ञः ?, प्रेर्यमाणः स्वकर्मभिः । प्रायेण हि मनुष्याणां, बुद्धिः कर्मानुसारिणी ॥२४॥
स पर्वतादिनाऽपि, न रुध्यते, त्वया निजप्रागभवचरित्रेण कर्मणां वैचित्र्यमवगन्तव्यम् । त्वया रूपवतीभवेऽतिकोपवशेन कोसीपक्षिणः पक्षौ लुञ्चिती, तस्मात्सा वीरमती भूत्वाऽत्र जन्मनि त्वां कुक्कुटं विधाय तयापि भृशं त्वं क्लेशितः, एवं च त्वत्तो निजपूर्वभववैरस्य प्रतिफलं गृहीतम् । पूर्वकर्मणां यदोदयो भवति, तदा स सर्वैर्भोक्तव्योऽवश्यमेव भवति । यतःकृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम्
॥२५॥ अपि चयथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म, कर्तारमनुधावति
સરદા तत्र कस्यचिदपि कोऽप्युपायो न चलति । तिलकमअर्या पूर्वभवे साध्व्या मृषा स्तैन्यकलङ्को दत्तः, अतोऽत्र जन्मनि तया साध्व्यापि कनकध्वजो भूत्वा प्रेमलालच्छी विषकन्याकलङ्केन कलङ्किता | पूर्वभवे रूपवत्याः समक्षे यथा कोसीरक्षकस्य प्रभावो नाऽचलत्, तथैवाऽत्र भवेऽपि वीरमत्याः पुरो गुणावल्या अपि कश्चित्प्रभावो नाऽचलत् । रुदत्यामेव तस्यां तत्स्वामी त्वं चन्द्रनृपो
|| २६४ ||