SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - पञ्चविंशः परिच्छेदः विमलापुरीतश्चन्द्रराजस्य प्रस्थानम् मदर्थमेवं प्रयतेत, पुरुषाणां पूर्वा पाणिगृहीती प्रियतरा भवतीति केषाञ्चिन्मतं विद्यते, केषाञ्चित्तु नूत्नायामेव पत्न्यां प्रेमाधिक्यं प्रवर्तत इति मतं वर्तते । तत्रोभयोर्मतयोः परमेव मतं मान्यम्, यतः षोडशकलापूर्णस्य पूर्णिमाचन्द्रस्य दर्शनमनादृत्य द्वितीयाचन्द्रस्य दर्शनार्थं जना धावन्ति । | उक्तमपि प्रथमदिवसचन्द्रः सर्वलोकैकवन्द्यः, स च सकलकलाभिः पूर्णचन्द्रो न वन्द्यः । अतिपरिचयदोषात्कस्य नो मानहानि - नवनवगुणरागी प्रायशः सर्वलोकः m I तथैव मे पतिदेवोऽपि प्रेमलाप्रेमपाशे पतितो लक्ष्यते । अहं श्रूवचनमागतेति मयि तस्य तादृशः स्नेहो न, यतो यस्य यत्र ताम्रचूडत्वमापतितम्, तत्र तस्मा आगमनमपि कथं रोचेत ? परं तेन विना मच्छरीरशोषो बोभूयते, अश्रुक्लेदितवस्त्रेण मम सदैव यामिनी याति, तद्विरहानलेन मे देहो दह्यते, अस्याग्नेस्तदागमनेनैव प्रशान्तिः स्यात् । यतः रात्रि दिवसायते हिमरुचिश्चण्डांशुल क्षायते, तारापङ्क्तिरपि प्रदीप्तवडवावह्निस्फुलिङ्गायते । धीरो दक्षिणमारुतोऽपि दहनज्वालावलीढायते, हा हा! चन्दनबिन्दुरद्य जलवत्संचारिरङ्गायते મો इत्यादिवार्तायास्तस्य किं ज्ञानं स्यात् ? । यदा गुणावल्येतद् ।। २५३ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy