SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - पञ्चविंशः परिच्छेदः विमलापुरीतश्चन्द्रराजस्य प्रस्थानम् अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य पञ्चविंशपरिच्छेदे विमलापुरीतश्चन्द्रराजस्य प्रस्थानम् I चन्द्रभूजानिना वीरमती हतेति वृत्तान्तः केनचिन्निर्जरेणाम्बरादाभापुरीमेत्य गुणावल्यै निवेदितः । तं शुभसंवादं श्रुत्वैव तया प्रसन्नतयाऽह्नायाहूताय सचिवाय सर्वोदन्तः श्रावितः । तेनातिहर्षालुना धीसखेनाऽप्यखिले नगरे सा वार्ता प्रकाशिता । तेन तद्वीरमतीमृत्यूपलक्षे नागरिकैरपि महोत्सवः कृतः । अथाऽऽश्वेवाभापुर्यां चन्द्रागमनमीहमानास्तद्दर्शनेन निजात्मानं कृतार्थं करिष्यमाणा नागरिका महत्तमास्तत्रत्यप्रजापक्षात् चन्द्रराजायैकं पत्रं लिखितवन्तः । यस्मिन्नस्य विजयस्य तस्मै वर्द्धापनिका दत्ता सपदि तदागमनाय चाऽभ्यर्थनापि कृता । ततो वीरमतीतोऽपगतभयाऽपि सा गुणावली पतिधना पतिव्रतेति पतिदर्शनाभावात् प्रसन्नकल्पेवाऽवर्तत । यतः पतिमन्तरेण तस्याः सुखोदयः कुतः ? अतः साऽनेन दुःखेन खिन्नमना अतिष्ठत् । अन्यदा सा मनस्यचिन्तयत्-अथ मे प्राणनाथः सौराष्ट्रदेशप्रिय एव भविष्यतीति लक्ष्यते । तत्त्वतः प्रेमलयैव मे हितं विहितमस्ति यतस्तदुद्योगादेव पतिदेवस्य मनुष्यत्वप्राप्तिर्जाता, परं पुनरपि तस्याः सपत्नीत्वात्सा तदागमनं कथमङ्गीकरिष्यति ? आहो ! चेत्कश्चित्तत्रेत्य तं बोधयेत्यत् वशुरकुले चिरस्थितिर्न शोभते महताम्, तदाऽत्र तदागमनं संभाव्यते । परमेतादृशः परोपकारी को भवेत् ? यस्तत्र गत्वा ' ।। २५२ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy