________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
वियोगस्यान्तः परं साधारणतो जनेभ्यस्तन्नाट्यमत्यरोचत, अतस्ते नटा यत्र यत्र गतास्तत्रैव तेषां धनस्य कीर्तेश्च प्राप्तिरभूत् । इत्थं बम्भ्रमन् स नटवर्गो विमलापुरी प्रत्यायातः, यत्र च स्थाने वीरमत्या स सहकारवृक्षः स्थापित आसीत्तत्रैव स्थाने नटैर्दूष्याद्यः स्वावास आरोपितः । कुक्कुटराजेन दृष्टमात्र एव तत्स्थानमुपलक्षितं, प्रेमलालच्छ्या सत्रा विवशो भूत्वा परिणयकरणं, तया सार्द्धमपूर्ववार्तालापभवनं, पुनस्त्वरितमेव तस्या वियोगादिघटनाश्चित्रवत्तस्य समक्षोपस्थिता भवितुं लग्नाः । यतःतदेवास्य परं मित्रं, यत्र संक्रामति द्वयम् । दृष्टे सुखं च दुःखं च, प्रतिच्छायेव दर्पणे
तेन स्वस्वान्ते वक्तुमारेभे-सैवेयं नगरी, यत्रागमनकारणेन मम कुक्कुटभवनं जातम्, सम्प्रत्यहं बम्भमन्पुनरत्रागतोऽस्मि, अतोऽत्रैव मे दुःखस्यावसानं भावीति संभाव्यते । कुत्राऽऽमापुरी क्व च विमलापुरी ? तदाभापुरीत एतावदूरमागमनं सुलभ नाऽऽसीत्, परं संसारेऽस्मिन् प्राणिनि जीविते सति किमप्यसम्भवं नाऽस्ति । यतःदृषद्भिः सागरो बद्ध इन्द्रजिन्मानवैर्जितः । यानरैवेष्टिता लङ्का, जीवद्भिः किं न दृश्यते ? ॥५॥
यदसम्भाव्यमपि तत्काले दैवेन संभाव्यते, ममात्रागमनेच्छाप्युत्कटाऽऽसीदिति मत्वैव प्रायो विधात्राऽहं पक्षिरूपेणाऽत्र प्रेषितः।
|| १६४ ।।