________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
वियोगस्यान्तः
र्भवेत्तदैकस्य भ्रातुः सम्बन्धेनाऽवश्यं मे दर्शनं देयम् । इदानीं मया यद् रम्यारम्यमुक्तं भवेत्तत्क्षन्तव्यं, अद्य भवन्मिलनेन मे सकलमपि जीवनं सफलं जातं समये स्मरणीयेयं निर्गुणापि भगिनी ।
यतः
दोषाकरोऽपि कुटिलोऽपि कलङ्कितोऽपि, मित्रावसानसमये विहितोदयोऽपि । चन्द्रस्तथापि हरवल्लभतामुपैति, नैयाश्रितेषु महतां गुणदोषशङ्का
nu
भवत्पुण्यावलिरावयोराशाः शीघ्रं सफलयतु। एवं कुक्कुटराजेन सह वार्तालापादिकं विधाय लीलावती तं नटराजसन्निधौ प्रैषयत् । तस्मिन्नागत एव नटेशेनाऽपि मन्त्रिपुत्रो मन्त्रिनिकेतने प्रेषितः, तदनन्तरं तत्र कार्याभावात्क्षिप्रमेव ते नटास्ततः प्रचेलिवांसः । अतःपरं ते नित्यं नवं नवं नगरमेत्य तत्र च राजपरिकरस्य स्वखेलनं दर्शयित्वा चन्द्रराजस्य सत्संगाद् विपुलं पुरस्कारं प्राप्तुं
लग्नाः ।
यतः
किं वापरेण बहुना परिजल्पितेन, सत्संग एव महतां महते फलाय । अम्भोनिधेस्तटरुहास्तरयोऽपि येन, बेलाजलोच्छलितरत्नकृतालयालाः
बहुषु स्थानेषु कुक्कुटराजकृते तेषां युद्धमपि कर्तव्यमभवत्,
।। १६३ ।।