________________
चन्द्रराजचरित्रम् - षोडशः परिच्छेदः
शिवमालायै चन्द्रनृपादिदानम्
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य षोडशपरिच्छेदे शिवमालायै चन्द्रनृपादिदानम्
अथाऽन्यदा शिवमालाह्वया स्वपुत्र्याऽन्यैश्च पञ्चशतैर्नटैः सत्रा शिवकुमाराख्यः प्रसिद्धो नटस्तत्राऽऽभापुर्यामागतवान् । नटकर्मनिपुणैस्तैः सार्द्धं शिवकुमारेण राजसभामेत्य, वीरमतीं च प्रणम्य स्वक्रीडां दर्शयितुमाज्ञा ययाचे, तदा वीरमत्योक्तम्- हे नटराज ! किं ते नाम त्वं कुतश्च समागतोऽसि ? बद्धाञ्जलिना शिवकुमारेणोक्तम् - राजमातः ! शिवकुमारनामाहमुत्तराशातोऽनेकेषां राज्ञां मनोरञ्जनं कृत्वा विपुलं पुरस्कारं लभमानोऽत्राऽऽगतोऽस्मि, यथाश्रुतैव भवदीयेयमाभापुरी विद्यते । इदानीं क्रीडां दर्शयितुमाज्ञापयन्तु भवत्यः, यतोऽहं भवतीं भवत्याः सभासदो जनांश्च प्रसाद्य स्वदैन्यान्मुक्तो भवितुं शक्नुयाम् । राज्ञ्या वीरमत्या शिवकुमाराय सहर्षं क्रीडां दर्शयितुमाज्ञा दत्ता । तेन हर्षितेनाऽमुना तदानीमेवाखिलेभ्यो नटेभ्यः खेलनायाऽऽदिष्टं, ततः प्राप्तादेशैस्तैर्विविधाः खेला दर्शयितुमारब्धास्तदा वाद्यारावं श्रुत्वा पिञ्जरं लात्वा गुणावल्यपि गवाक्षमेत्योपविष्टा । सर्वेषां नटानां खेलाया अनन्तरं शिवमालाऽपि स्वनाट्यदर्शनार्थं सन्नद्धा जाता । तदा नटैः प्रथममेकमत्युच्छ्रितं वंशं भूमावारोप्य स चतुर्दिक्षु तथा सम्यग्रश्मिभिर्बद्धो यथेतस्ततश्चलितुं न शक्नुयात् । अथ सादौ तद्वंशोपरि पूगीफलमेकं धृत्वा वीरमतीं राज्ञीं च प्रणम्य राज्ञश्चन्द्रस्य जयजयारावं कुर्वती
।। १५३ ।।