SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ * चन्द्रराजचरित्रम् - त्रयोदशः परिच्छेदः आभानरेशस्याऽन्वेषणम् तत्राऽगच्छत् । चानेके नागरिका अपि तेन सह जग्मुर्जङ्घाचारणमुनिराजं वन्दित्वा सर्वे यथास्थानमासत । तेनाऽनन्तरं दत्तां धर्मदेशनां श्रुत्वा बहुभव्यजीवानां प्रतिबोधप्राप्तिर्बभूव, तैश्च तदानीमेव गुरुसमक्षेऽनेकविधं व्रतनियमादिकं जगृहे । यतः इह भुवि कलयति लघुरपि, महतां सङ्गेन कमपि महिमानम् । लङ्घयति शशिनि लीनः, खमण्डलं हेलया हरिणः ॥३२॥ प्रेमलाऽपि शुद्धसम्यक्त्वधारिणी श्राविकाऽभूत् । अन्यत्र कृतविहारे गुरौ सर्वे स्वस्वस्थानमागताः प्रेमलाऽपि ततः प्रभृति जिनवन्दने पूजनादिधर्मकार्येषु च विशेषेणाऽनुरक्ता जाता । साऽनुक्षणं नवकारमन्त्रस्य जपं कुर्वाणा पुण्यमयं जीवनं गमयन्ती धन्यमन्या जाता । यतः अपुव्यो हि कप्पतरू, एसो चिंतामणी अपुव्यो अ । जो झायइ सयकालं, सो पावइ सिवसुहं विउलं ॥३३॥ गतेषु कतिपयदिनेषु तन्मन्त्रप्रजपनप्रभावात् प्रकटीभूतैका शासनदेवता प्रेमलां प्रोवाच - भगिनि ! ते पतिरवश्यं मिलिष्यति, किन्तु सम्प्रति तत्र विलम्बोऽस्ति । विवाहदिनात् षोडशवर्षे गते तेन सह ते संगमोऽवश्यं भविष्यति । तावत्त्वयेत्थमेव परमात्मनो भक्तौ कालो निर्गमनीयः, कापि चिन्ता च न करणीया । प्रेमलयैष समाचारः पितृभ्यां निवेदितस्तेन तावपि निश्चिन्तौ जातौ । तन्मन्त्रस्य तत्प्रत्यक्षप्रभावं विलोक्य तत्राऽतिश्रद्धावती ।। १३६ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy