SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ( २ ) भव्यव्रातमनःकुरङ्गशमकृत् तत्पभूषाकरो रामः श्रीनरसिंहसूरिरभवत् विद्यात्रयीपावनः ॥ ६ ॥ नित्यं यः समितौ रतः कलयते सद्गुप्तिशक्तित्रय सातत्यं व्रतपञ्चवल्लभलसद्गन्धर्वगर्वोद्धरः । श्रीमत्पूज्यरविप्रभप्रविकसत्पदृक्षमालंकृतिः साक्षादेष नरेन्द्र एव जयति श्रीमन्नरेन्द्रप्रभः ॥ ७ ॥ दुर्वारप्रतिवादिविन्ध्यशमकृच्चान्द्रेकुले विश्रुतो देवानन्द इति प्रसिद्धमहिमोद्दामा मुनिग्रामणीः । अष्टव्याकरणाम्बुधीन् निरवधीन् शब्दोर्मिमालाऽऽकुलान् ___ यः स्वव्याकरणप्रशस्तिचुलुकैश्चित्रं चकारोच्चकैः ॥ ८ ॥ तच्छिष्योऽजनि जागरूकमहिमा रत्नप्रभाख्यप्रभुः पट्टे श्रीकनकप्रभः प्रतिमया वाचस्पतिर्मूर्तिमान् । तत्पादाम्बुजचञ्चरीकचरितः प्रद्युम्नसूरिनव प्रीतिः श्रीविनयेन्दुना तदखिलं चाशोधयद् बोधये ॥ ९ ॥ पूज्यश्रीरत्न (?) सिंहसूरिसुगुरोः श्रीमन्नरेन्द्रप्रभो रादेशाद् विनयाङ्कपार्श्वचरितस्रष्टाशया (?)। गच्छोत्तंसरविप्रभाभिधगुरोः शिष्योऽल्पमेधा अपि सूरिः श्रीविनयेन्दुरेष विदधे मल्लेश्चरित्रं नवम् ॥ १० ॥ क्षेत्रे भारतनामके जिनपतेर्यावत् परं शासनं (?) शस्यीमंद वृषव्रजपरीपोषक्षम वर्धते । एतद् नीरदवृन्दसुन्दरतनोः श्रीमल्लितीर्थेशितुः प्रोदामं रसपूरचारुचरितं तावच्चिरं नन्दतात् ॥ ११ ॥ आपादयति चात्रार्थे तैरेव निर्मितस्य कल्पनिरुक्तनाम्नो ग्रन्थस्य पाश्चात्यः कियानंशो विशेषतो दाढर्यम् ; स चायम्___ "सैद्धान्तिकश्रीमुनिचन्द्रशिष्याः प्राज्ञा अनूचानवरा जयन्ति । श्रीरत्नसिंहाहृयसूरिमुख्या मच्छिष्यलेशो विनयेन्दुसूरिः ॥ १ ॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy