SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २७८ मल्लिनाथमहाकाव्येप्रविशक्षि तत्पत्न्या सुमेरुरिव जङ्गमः ॥९८७।। नन्दयाऽऽनन्दसंपूर्ण वस्तुकल्पमढौक्यत । धन्या धन्येति भाषिण्या यद् वीरो गृहमागतः ॥९८८॥ अनुकूलमभूत् दैवं सत्यार्थी आशिषोऽपि च । उज्जृम्भितं मुहुः पुण्यं तुष्टा मे कुलदेवता ॥९८९॥ एवं मनसि बिभ्रत्यामभिग्रहवशाद् जिनः । अनात्तभिक्षस्तद्गहाद् निर्ययौ गजलीलया ॥९९०॥ अधन्या मन्दभाग्याऽहमसंपूर्णमनोरथा । यथागतः तथागच्छत्येष चिन्तामणिः श्रिया ॥९९१॥ एवं खेदपरां नन्दा दास्यूचेऽयं दिने दिने । आयाति याति च स्वामी तद्धतुरवगम्यताम् ।।९९२॥ इत्थमाकर्ण्य नन्दापि सखेदा पत्युरग्रतः । वीरस्याऽनात्तभिक्षत्वं कथयामासुषी तदा ॥ ९९३ ॥ परचित्तोपलक्षिण्या किं कार्य भवतां धिया ? । यदसौ जगतां नाथो गृहमायाति याति च ॥ ९९४ ॥ जानात्वभिग्रहं प्रेयान् दुर्लक्षे धीप्रयोगतः । सर्वज्ञेनेव कार्याणि ज्ञायन्ते भवता धिया ॥ ९९५ ॥ अभुक्ते सुगुरौ नाथ ! भुज्यते किं विवेकिभिः ? । अन्यथा पशुवजन्म वयं मन्यामहे निजम् ॥ ९९६ ॥ ततो मन्त्री जगादैवं तीर्थेशितुरभिग्रहम् । यथातथा करिष्यामि पूर्ण प्रातः मृगेक्षणे ! ॥ ९९७ ॥ विजयाख्या प्रतीहारी मृगावत्यास्तदागता । तयोरालापमाकर्ण्य गत्वा देव्या उवाच च ॥ ९९८ ।। मृगावत्यपि तत्कालं विदधे खेदमुच्चकैः । जिनशासनभक्तानां किमिदं किल कौतुकम् ॥ ९९९ ॥ संभ्रान्तस्तां शतानीकोऽपृच्छत् खेदनिबन्धनम् । १ भुवननाथे, इत्यपरम् ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy